संस्कृत् लघु नाटिका Sanskrit Short Play/ Act संस्कृत सैन्यम् Sanskrit Sainyam

 संस्कृत् लघु नाटिका 

Sanskrit Short Play/ Act


 संस्कृत सैन्यम् 

 Sanskrit Sainyam 

 



YouTube Video Link 


नमो नमः


अद्य वयम् अष्टं कक्षायाः छात्राः भवतां समक्षे संस्कृते लघु नाटिकां प्रस्तुतं कुर्मः

यस्याः नाम अस्ति - संस्कृत सैन्यम्


अस्मिन् नाटिकायां एका अस्ति संस्कृत माता

यस्याः अभिनयं (आरुषी) करोति।


एका अस्ति बालिका। 

यस्याः अभिनयं (कशिश) करोति।



अहं च (प्राची) सूत्रकारः रूपेण अस्मि।


-------- 

(काचित् उपविश्य रुदती अस्ति ।

 बालः/बाला प्रविशति। ) 


 *बालः* - ( दृष्ट्वा , स्वगतम् ) अहो , काचित् माता रोदनं कुर्वती अस्ति । किमर्थं स्यात् ? अथवा तामेव पृच्छामि । 

 

 ( समीपं गत्वा ) 

 अम्ब ! का भवती ? किमर्थ रोदनं करोति ?

 *माता :* - वत्स ! मां न जानासि ? अहम् अस्मि संस्कृतमाता । 

 *बालः -* अहो , संस्कृतमाता वा ! वदतु , भवती किमर्थं रोदिति ? 

 *माता :-* वत्स ! किमिति वदामि मम दुरवस्थाम् ! यस्यां भूमौ मम जन्म अभवत् , यत्र च वेद - पुराण - उपनिषदः विलसन्ति , यस्मिन् देशे व्यास - वाल्मीकि - कालिदासादयः महाकवयः विराजन्ते तत्रैव जना मां विस्मृतवन्तः । 

 

 *बाल* : - हन्त !

 *माता* :- हूं.... मम कष्टं किमिति वदानि ? कोऽपि मम साहाय्यं न करोति 

 *बालः* - अम्ब । रोदनं मा करोतु । अहं भवत्याः साहाय्यं करोमि ।

 *माता :-* वत्स ! त्वं तु लघुबालः । त्वम् एकाकी किं करोषि ? 

 *बालः* - अहं बालः सत्यम् । किन्तु अहम् एकाकी नास्मि अम्ब ! मम सैन्यमेव अस्ति ।

 *माता* :- तव सैन्यम् ? किं तत् सैन्यम् ? 

 *बालः* - तदस्ति संस्कृतसैन्यम् । पश्यतु । ( नेपथ्याभिमुखं दृष्ट्वा ) आगच्छन्तु आगच्छन्तु । ( अन्येऽपि बाला आगच्छति । ) 

 

 *सर्वे बालाः -* ( नृत्यन्तः गीतं गायन्ति । )



अहं पठामि संस्कृतम् । 

अहं वदामि संस्कृतम् ।

 अहं लिखामि संस्कृतम् । 

सदैव सुन्दराक्षरम् ।


अहं स्मरामि मातरम् । 

अहं भजामि मातरम् । 

अहं नमामि मातरम् ।

 सदैव भक्तिपूर्वकम् ।

 






Comments

Popular posts from this blog

8B.1 भारत की खोज (Bharat ki Khoj) कक्षा आठवीं पूरक पाठ्यपुस्तक NCERT प्रश्न-अभ्यास (1-15)

8.1लाख की चूड़ियां laakh ki chudiyan

8.7 कबीर की साखियां - अभ्यास Kabir ki sakhiyan