संस्कृत् लघु नाटिका Sanskrit Short Play/ Act संस्कृत सैन्यम् Sanskrit Sainyam
संस्कृत् लघु नाटिका Sanskrit Short Play/ Act संस्कृत सैन्यम् Sanskrit Sainyam YouTube Video Link नमो नमः अद्य वयम् अष्टं कक्षायाः छात्राः भवतां समक्षे संस्कृते लघु नाटिकां प्रस्तुतं कुर्मः यस्याः नाम अस्ति - संस्कृत सैन्यम् अस्मिन् नाटिकायां एका अस्ति संस्कृत माता यस्याः अभिनयं (आरुषी) करोति। एका अस्ति बालिका। यस्याः अभिनयं (कशिश) करोति। अहं च (प्राची) सूत्रकारः रूपेण अस्मि। -------- (काचित् उपविश्य रुदती अस्ति । बालः/बाला प्रविशति। ) *बालः* - ( दृष्ट्वा , स्वगतम् ) अहो , काचित् माता रोदनं कुर्वती अस्ति । किमर्थं स्यात् ? अथवा तामेव पृच्छामि । ( समीपं गत्वा ) अम्ब ! का भवती ? किमर्थ रोदनं करोति ? *माता :* - वत्स ! मां न जानासि ? अहम् अस्मि संस्कृतमाता । *बालः -* अहो , संस्कृतमाता वा ! वदतु , भवती किमर्थं रोदिति ? *माता :-* वत्स ! किमिति वदामि मम दुरवस्थाम् ! यस्यां भूमौ मम जन्म अभवत् , यत्र च वेद - पुराण - उपनिषदः विलसन्ति , यस्मिन् देशे व्यास - वाल्मीकि - कालिदासादयः महाकवयः विराजन्ते तत्रैव जना मां विस्मृतवन्तः । *बाल* : - हन्त ! *माता* :- हूं....